|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.57. अध्यायः 057
Mahabharata - Vana Parva - Chapter Topics
द्यूते नलपराजयमुत्पश्यन्त्या दमयन्त्या चोदितेन सारथिना तत्पुत्रमिथुनस्य रथारोपणेन भीमनगरप्रापणम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text
बृहदश्व उवाच। 3-57-0x(1926)(18015)
दमयन्ती ततो दृष्ट्वा पुण्यश्लोकं नराधिपम्।
उन्मत्तवदनुन्मत्ता देवने कृतचेतसम् ॥ 3-57-1(18016)
भयशोकसमाविष्टा राजन्भीमसुता ततः।
चिन्तयामास तत्कार्यं सुमहत्पार्थिवं प्रति ॥ 3-57-2(18017)
सा शङ्कमाना तत्पापं चिकीर्षन्ती च तत्प्रियम्।
नलं च हृतसर्वस्वमुपलभ्येदमब्रवीत् ॥ 3-57-3(18018)
बृहत्सेनामतियशां तां धात्रीं परिचारिकाम्।
हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥ 3-57-4(18019)
बृहन्सेने व्रजामात्यानानाय्य नलंशासनात्।
आचक्ष्व यद्धृतं द्रव्यमवशिष्टं च यद्वसु ॥ 3-57-5(18020)
`इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर।
उवाच देव्या वचनं मन्त्रिणां सा समीपत ॥' 3-57-6(18021)
ततस्ते मन्त्रिणः सर्वे विज्ञाय नलशासनम्।
अपि नो भागधेयं स्यादित्युक्त्वा पुनराव्रजन् ॥ 3-57-7(18022)
तास्तु सर्वाः प्रकृतयो द्वितीयं समुपस्थिताः।
न्यवेदयद्भीमसुता न च तत्प्रत्यनन्दत ॥ 3-57-8(18023)
वाक्यमप्रतिनन्दन्तं भर्तारमभिवीक्ष्य सा।
दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥ 3-57-9(18024)
निशाम्य सततं चाक्षान्पुण्यश्लोकपराङ्युखान्।
नलं च हृतसर्वस्वं धात्रीं पुनरुवाच ह ॥ 3-57-10(18025)
बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात्।
सूतमानय कल्याणि महत्कार्यमुपस्थितम् ॥ 3-57-11(18026)
बृहत्सेना तु सा श्रुत्वा दमयन्त्याः प्रभापितम्।
वार्ष्णेयमानयामास पुरुषैराप्तकारिभिः ॥ 3-57-12(18027)
वार्ष्णेयं तु ततो भैमी सान्त्वयच्छ्लक्ष्णया गिरा।
उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥ 3-57-13(18028)
जानषे त्वं यथा राजा सम्यग्वृत्तः सदा त्वयि।
तस्य त्वं विपमस्थस्य साहाय्यं कर्तुमर्हसि ॥ 3-57-14(18029)
यथायथा हि नृपतिः पुष्करेणैव जीयते।
तथातथाऽस्य वै द्यूते रागो भूयोऽभिवर्धते ॥ 3-57-15(18030)
यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः।
तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥ 3-57-16(18031)
सुहृत्स्वजनवाक्यानि यथाऽयं न शृणोति च।
ममापि च तथा वाक्यं नाभिनन्दति नैषध ॥ 3-57-17(18032)
यथा राज्ञः प्रदीप्तानां भाग्यानामद्य सारथे।
नूनं मन्ये न शेषोस्ति नैषधस्य महात्मनः ॥ 3-57-18(18033)
यत्तु मे वचनं राजा नाभिनन्दति मोहितः।
शरणं त्वां प्रपन्नाऽस्मि सारथे कुरु मद्वचः।
न हि मे शुध्ते भावो विनाशं प्रति सारथे ॥ 3-57-19(18034)
नलस्य दयितानश्वान्योजयित्वा मनोजवान्।
रथमारोप्य मिथुनं कुण्डिनं यातुर्महसि ॥ 3-57-20(18035)
मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा।
अश्वांश्चेमान्यथाकामं वस वाऽन्यत्र गच्छवा ॥ 3-57-21(18036)
दमयन्त्यास्तु तद्वाक्यं वार्ण्येयो नलसारथिः।
न्यवेदयदशेषेण नलामात्येषु मुख्यशः ॥ 3-57-22(18037)
तैः समेत्य विनिश्चित्य सोऽनुज्ञातो महीपते।
ययौ मिथुनमारोप्य विदर्भांस्तेन वाहिना ॥ 3-57-23(18038)
हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम्।
इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥ 3-57-24(18039)
आमन्त्र्य भीमं राजानमार्तः शोचन्नलं नृपम्।
क्व नु यास्यामि मनसा चिन्तयानो मुहुर्मुहुः।
अटमानस्ततोऽयोध्यां जगाम नगरीं तदा ॥ 3-57-25(18040)
ऋतुपर्णं स राजानमुपतस्थे सुदुःखितः।
भृतिं च स ददौ चास्य सारथ्येन नियोजितः ॥ 3-57-26(18041)
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तपञ्चाशोऽध्याः ॥ 57 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-57-2 द्वितीयं द्वतीयवारम्। न च तत्प्रत्यवबुध्यतेति क. ध.पाठः ॥ 3-57-19 कदाचिद्विनशेदपीति झ.पाठः ॥ 3-57-20 मिथुनं कुमारीं कुमारं च। कुण्डिनं भीमस् नगरम् ॥ 3-57-22 मुख्यशः मुख्येषु मुख्येषु ॥ 3-57-23 वाहिना अश्वरथेन ॥ 3-57-26 भृतिं वेतनम् ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|